रविवार, 25 जुलाई 2021

प्रयाणगीतम्

https://youtu.be/0FAp

Kr84-aQ
प्रयाणगीतम्
 चन्दनतुल्या भारतभूमिस्तपस्थली ग्रामो ग्रामः | 
बाला - बाला देवी प्रतिमा वत्सो वत्सः श्रीरामः ।
 मन्दिरवत् पावनं शरीरं सर्वो मानव उपकारी । 
सिंहा इह खेलनका जाता गौरिह पूज्या जनयित्री ।। 
इह प्रभाते शङ्खध्वनिः सायं सङ्गीतस्वान् । 
बाला - बाला देवी प्रतिमा वत्सो वत्सः श्रीरामः ।। ( 1 ) 
अत्र कर्मतो भाग्यनिर्मितिः पौरुषनिष्ठा कल्याणी । 
अत्र त्यागतपस्या मिश्रा गाथा गायति कविवाणी ।। 
अत्र ज्ञानप्रवाहो गङ्गासलिलनिर्मलो ह्यविरामः । बाला बाला देवीप्रतिमा वत्सो वत्सः श्रीरामः ।। ( 2 ) 
अत्रत्यैः सैनिकैः समरभुवि सदा गीयते श्रीगीता । 
अत्र क्षेत्रे हलफालाधः खेलति सुकुमारी सीता ।। 
अत्र जीवनादर्श जटितो मङ्गलमयमणिरभिरामः । 
बाला बाला देवी प्रतिमा वत्सो वत्सः श्रीरामः ।। ( 3 )

# %% import numpy as np import pandas as pd from sklearn.model_selection import train_test_split from sklearn.feature_extraction.text import...